Friday, 10 January 2020

|| श्री प्रत्यङ्गिरा कवच ||

विनियोगः- ॐ श्रीसर्वार्थसाधककवचस्य शिव ऋषिः, विराट् छन्दः, श्रीमत्प्रत्यङ्गिरा देवता, ऐं बीजम्, ह्रीं शक्तिः, श्रीं कीलकं श्रीसदाशिवदेवता प्रीत्यर्थे पाठे विनियोगः ॥

ॐ प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् ।
ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ १॥

प्रत्यङ्गिरा दक्षकर्ण वामे कामेश्वरी तथा ।
लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ २॥

गौरी तु रसनां पातु कण्ठं पातु महेश्वरः ।
स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ ३॥

शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा ।
ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ ४॥

कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी ।
वाराही च कटिम्पातु चैन्द्री पातु पदद्वयम् ॥ ५॥

भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् ।
इन्द्रः पूर्वे सदा पातु आग्नेय्यां अग्निदेवता ॥ ६॥

याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा ।
पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ ७॥

सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः ।
ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ ८॥

राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा ।
जले स्थले चाऽन्तरिक्षे शत्रूणां निग्रहे तथा ॥ ९॥

एताभिः सहिता देवी चतुर्बीजा महेश्वरी ।
प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ १०॥