Friday, 10 January 2020

|| श्री प्रत्यङ्गिरा स्तोत्र ||

विनियोगः- अस्य श्री प्रत्यङ्गिरा स्तोत्रस्य, अङ्गिरा ऋषिः अनुष्टुप् छन्दः, श्रीप्रत्यङ्गिरा देवता ओं बीजं शक्तिः, ममाभीष्ट सिध्यर्थे पाठे विनियोगः ।

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः षडङ्गन्यासं कुर्यात् ।

ध्यानम् -
कृष्णरूपां बृहद्रूपां रक्तकुञ्चिता मूर्द्धजाम् ।
शिरः कपालमालाञ्च विकेशीं घूर्णिताननाम् ॥

रक्तनेत्रामति क्रुद्धां लम्बजिह्वामधोमुखीम् ।
दंष्ट्राकरालवदनां नेत्र भ्रुकुटिलेक्षणाम् ॥

ऊर्ध्वदक्षिणहस्तेन विभ्रतीं च परष्यधम् ॥

अघोदक्षिणहस्तेन विभ्राणां शूलमद्भुतम् ।
ततोर्ध्ववामहस्तेन धारयन्तीं महाङ्कुशां ।
अधोवाम करेणाथ विभ्राणां पाशमेव च ।
एवं ध्यात्वा महाकृत्यां स्तोत्रमेतदुदीरयेत् ॥

ईश्वर उवाच -
नमः प्रत्यङ्गिरे देवि प्रतिकूलविधायिनि ।
नमः सर्वगते शान्ते परचक्रविमर्दिनी ॥

नमो जगत्रयाधारे परमन्त्रविदारिणी ।
नमस्ते चण्डिके चण्डी महामहिषवाहिनी ॥

नमो ब्रह्माणि देवेशि रक्तबीजनिपातिनी ।
नमः कौमारिके कुण्ठी परदर्पनिषूदिनी ॥

नमो वाराहि चैन्द्राणि परे निर्वाणदायिनी ।
नमस्ते देवि चामुण्डे चण्डमुण्डविदारिणी ॥

नमो मातर्महालक्ष्मी संसारार्णवतारिणी ।
निशुम्भदैत्यसंहारि कालान्तकि नमोऽस्तुते ॥


ॐ कृष्णाम्बर शोभिते सकल सेवक जनोपद्रवकारक दुष्टग्रह राजघन्टा संहृट्ट हारिहि कालान्तकि नमोऽस्तुते ॥ दुर्गे सहस्रवदने अष्टादशभुजलता भूषिते महाबल पराक्रमे अद्भुते अपराजिते देवि प्रत्यङ्गिरे सर्वार्तिशायिनि परकर्म विध्वंसिनि परयन्त्र मन्त्र तन्त्र चूर्णादि प्रयोगकृत वशीकरण स्तम्भन जृम्भणादि दोषान् चयाच्छादिनि सर्वशत्रूच्चाटिनि मारिणि मोहिनि वशीकरणि स्तम्भिनि जृम्भिणि आकर्षिणि सर्वदेवग्रह योगग्रह योगिनिग्रह दानवग्रह दैत्यग्रह राक्षसग्रह सिद्धग्रह यक्षग्रह गुह्यकग्रह विद्याधरग्रह किन्नरग्रह गन्धर्वग्रह अप्सराग्रह भूतग्रह प्रेतग्रह पिशाचग्रह कूष्माण्डग्रह गजादिकग्रह मातृग्रह पितृग्रह वेतालग्रह राजग्रह चौरग्रहगोत्र ग्रहाश्वदेवता ग्रह गोत्र देवता ग्रह आधिग्रह व्याधिग्रह अपस्मार ग्रह नासाग्रह गलग्रह याम्यग्रह डामरिकाग्रहोदक ग्रह विद्योरग्रहाराति ग्रह छायाग्रह शल्यग्रह सर्वग्रह विशल्यग्नह कालग्रह सर्वदोषग्रह विद्राविणी सर्वदुष्ट भक्षिणि सर्वपाप निशूदिनि सर्वयन्त्र स्फोटिनि सर्वश‍ृङ्खला त्रोटिनि सर्वमुद्रा द्राविणि ज्वालाजिह्वे कराल वक्त्रे रौद्रमूर्ते देवि प्रत्यङ्गिरे सर्वदेहि यशोदेहि पुत्रं देहि आरोग्यं देहि भुक्ति मुक्त्यादिकं देहि सर्वसिद्धि देहि मम सपरिवारं रक्ष रक्ष पूजा जप होम ध्यानार्चनादिकं कृतं न्यूनमधिकं वा परिपूर्णं कुरु कुरु अभिमुखि भव भव रक्ष रक्ष स्वापराधं एवं स्तुता महालक्ष्मी शिवेन परमात्मनः उवाचेदं प्रहृष्टाङ्गी श‍ृणुष्व परमेश्वरः ॥